URDHVAMNAYA SRI KASHI SUMERU (PADUKA) MATHA

शङ्कराचार्य – प्रशस्ति

श्रीशङ्कराचार्य – जगद्गुरूणां

काशीस्थ – सिंहासन-शोभितानाम् ।

दण्डीश्वराणां वरकीर्तिभाजां

पादाम्बुजं पूज्यवरं नमामि ॥

सानन्दमानन्दवने वसन्त’-

मानन्दकन्दं हतपापवृन्दम् ।

वाराणसीनाथमनाथनाथं

श्रीविश्वनाथं शरणं प्रपद्ये ॥