FAQ: Number of Mathas established by Bhagavatpada

वाराणसीमिति । योगिवर आचार्यः वाराणसीं काशीं वरणासोनद्योर्मध्ये स्थितत्वात् वाराणसी इति पृषोदरादित्वान्निपातितः । श्रीहरिश्रतुर्भुजैरिव शिष्यैः पद्मपादाचार्यादिभिः सह अधिगम्य प्राप्य आत्मना सह अमीषां शिष्याणां पञ्च मठान्प्रकल्प्य कतिचिद्दिनानि तस्थौ स्थितवान्। ‘कालाध्वनोरत्यन्तसंयोगे’ इति सप्तम्यर्थे द्वितीया ॥ २३ ॥